नान्यं गुणेभ्यः कर्तारं...rtoz10i d Rrp k d gt hex ( chtcuppor
अन्तर्विषयाः
- १ श्लोकः
- २ पदच्छेदः
- ३ अन्वयः
- ४ शब्दार्थः
- ५ अर्थः
- ६ सम्बद्धसम्पर्कतन्तुः
- ७ सम्बद्धाः लेखाः
श्लोकः[सम्पादयतु]
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन (जनुवरि २०१४) |
- नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
- गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य नवदशः(१९) श्लोकः ।
पदच्छेदः[सम्पादयतु]
न अन्यं गुणेभ्यः कर्तारं यदा द्रष्टा अनुपश्यति गुणेभ्यः च परं वेत्ति मद्भावं सः अधिगच्छति ॥ १९ ॥
अन्वयः[सम्पादयतु]
द्रष्टा यदा गुणेभ्यः अन्यं कर्तारं न अनुपश्यति (आत्मानम्) गुणेभ्यः च परं वेत्ति सः मद्भाम् अधिगच्छति ।
शब्दार्थः[सम्पादयतु]
- द्रष्टा = समीक्षकः विद्वान्
- गुणेभ्यः = सत्त्वादिभ्यः
- अन्यम् = इतरम्
- अनुपश्यति = अवलोकते
- परम् = व्यतिरिक्तम्
- वेत्ति = जानाति
- मद्भावम् = मत्स्वरूपम्
- अधिगच्छति = लभते ।
अर्थः[सम्पादयतु]
अत्र यावन्ति कर्माणि भवन्ति तानि सर्वाणि गुणाः एव कुर्वन्ति, न तु आत्मा । स च गुणेभ्यो व्यतिरिक्तः केवलं कर्मणां साक्षिभूतः इति पुरुषः यदा जानाति तदा मोक्षं प्राप्नोति ।
सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]
- भगवद्गीता (मूलश्लोकाः)
- भगवद्गीता
सम्बद्धाः लेखाः[सम्पादयतु]
- संस्कृतम्
- श्रीमद्भगवद्गीता
- शङ्कराचार्यः
- रामानुजाचार्यः